।। ॐ श्री गणेशाय नमः ।।
अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिक ऋषिः
श्रीसीतारामचंद्रो देवता अनुष्टुप छंदः सीता शक्तिः
श्रीमद हनुमान कीलकम
श्रीरामचन्द्र प्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।।
।। अथ ध्यानम ।।
ध्यायेदाजानुबाहुं घृतशरधनुषं बद्धपद्मासनस्थम,
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्ननम,
वामांकारुढ़ सीतामुखकमलमिल्ललोचनं नीरदाभम,
नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम ।।
।। इति ध्यानम ।।
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ।।1
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ।।2
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् । स्वलीलया जगत्रातुं आविर्भूतम अजं विभुम् ।।3
रामरक्षां पठेतप्राज्ञः पापघ्नीं सर्वकामदाम् । शिरोमे राघवः पातु भालं दशरथात्मजः ।।4
कौसल्येयो दृशो पातु विश्वामित्रप्रियश्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।।5
जिह्वां विद्यानिधिः पातु कंठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ।।6
सीतापतिः पातु हृदयं जामदग्न्यजित । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।।7
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । उरु रघूत्तमः पातु रक्षःकुलविनाशकृता ।।8
जानुनी सेतुक्रित्पातु जंघे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु रामोखिलं वपुः ।।9
एतां रामबलोपेतां रक्षां यः सुकृति पठेत । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ।।10
पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ।।11
रामेति रामभद्रेति रामचंद्रेति वा स्मरन । नरो न लिप्यते पापैः र्भुक्तिं मुक्तिं च विन्दति ।।12
जगतजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ।।13
वज्रंपंजरनामेदं यो रामकवचं स्मरेत । अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ।।14
आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ।।15
आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ।।16
तरुणौ रूपसंम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।।17
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।।18
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ।।19
आत्तसज्जधनुषाविषुस्पृशा वक्षयाशुगनिषंगसंगिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ।।20
सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः ।।21
रामोदाश रथिः शूरो लक्ष्मणानुचरो बली । काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ।।22
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमान अप्रमेय पराक्रमः ।।23
इत्येतानि जपननित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ।।24
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम । स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नरः ।।25
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।।26
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ।।27
रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ।।28
श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम ।।
श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ।।29
श्रीरामचन्द्रचरणौ मनसा स्मरामि । श्रीरामचंद्रचरणौ वचसा गृणामि ।।
श्रीरामचन्द्रचरणौ शिरसा नमामि । श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।।30
माता रामो मत्पिता रामचंद्रः । स्वामी रामो मत्सखा रामचंद्रः ।।
सर्वस्वं मे रामचंद्रो दयालुः । नान्यं जाने नैव जाने न जाने ।।31
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम ।।32
लोकाभिरामं रणरंगधीरम राजीवनेत्रं रघुवंशनाथम । कारुण्यरूपं करुणाकरणतम श्रीराम चरणं शरणं प्रपद्ये ।।33
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम । वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ।।34
कूजन्तं रामरामेति मधुरं मधुराक्षरम । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ।।35
आपदां अपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।।36
भर्जनं भवबीजानाम अर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ।।37
रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।।
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धराः ।।38
राम रामेति रामेति रमे रामे मनोरमे । सहस्त्रनाम तत्तुल्यं रामनाम वरानने ।।39
।। इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णं ।।
।। श्रीसीतारामचंद्रार्पणमस्तु ।।